हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...

Srimad Bhagavad Gita – श्रीमद्भगवद्गीता  
 स्तोत्रम् - Stotras Srimad Bhagavad Gita – श्रीमद्भगवद्गीता Valmiki Ramayanam in Sanskrit – वाल्मीकि रामायणम्

Sri Vishnu Mahimna Stotram – श्री विष्णु महिम्नः स्तोत्रम्


महिम्नस्ते पारं विधिहरफणीन्द्रप्रभृतयो
विदुर्नाद्याप्यज्ञश्चलमतिरहं नाथनु कथम् ।
विजानीयामद्धा नलिननयनात्मीयवचसो
विशुद्ध्यै वक्ष्यामीषदपि तु तथापि स्वमतितः ॥ १ ॥

यदाहुर्ब्रह्मैके पुरुषमितरे कर्म च परे-
ऽपरे बुद्धं चान्ये शिवमपि च धातारमपरे ।
तथा शक्तिं केचिद्गणपतिमुतार्कं च सुधियो
मतीनां वै भेदात्त्वमसि तदशेषं मम मतिः ॥ २ ॥

शिवः पादाम्भस्ते शिरसि धृतवानादरयुतं
तथा शक्तिश्चासौ तव तनुजतेजोमयतनुः ।
दिनेशं चैवामुं तव नयनमूचुस्तु निगमा-
स्त्वदन्यः को ध्येयो जगति किल देवो वद विभो ॥ ३ ॥

क्वचिन्मत्स्यः कूर्मः क्वचिदपि वराहो नरहरिः
क्वचित्खर्वो रामो दशरथसुतो नन्दतनयः ।
क्वचिद्बुद्धः कल्किर्विहरसि कुभारापहतये
स्वतन्त्रोऽजो नित्यो विभुरपि तवाक्रीडनमिदम् ॥ ४ ॥

हृताम्नायेनोक्तं स्तवनवरमाकर्ण्य विधिना
द्रुतं मात्स्यं धृत्वा वपुरजरशङ्कासुरमथो ।
क्षयं नीत्वा मृत्योर्निगमगणमुद्धृत्य जलधे-
रशेषं सङ्गुप्तं जगदपि च वेदैकशरणम् ॥ ५ ॥

निमज्जन्तं वार्धौ नगवरमुपालोक्यसहसा
हितार्थं देवानां कमठवपुषा विश्वगहनम् ।
पयोराशिं पृष्ठे तमजित सलीलं धृतवतो
जगद्धातुस्तेऽभूत्किमु सुलभभाराय गिरिकः ॥ ६ ॥

हिरण्याक्षः क्षोणीमविशदसुरो नक्रनिलयं
समादायामर्त्यैः कमलजमुखैरम्बरगतैः ।
स्तुतेनानन्तात्मन्नचिरमतिभाति स्म विधृता
त्वया दम्ष्ट्राग्रेऽसाववनिरखिला कन्दुक इव ॥ ७ ॥

हरिः क्वासीत्युक्ते दनुजपतिनाऽपूर्य निखिलं
जगन्नादैः स्तम्भान्नरहरिशरीरेण करजैः ।
समुत्पत्याऽऽशूरावसुरवरमादारितवत-
स्तवाख्याता भूमाकिमु जगति नो सर्वगतता ॥ ८ ॥

विलोक्याजं द्वार्गं कपटलघुकायं सुररिपु-
र्निषिद्धोऽपि प्रादादसुरगुरुणात्मीयमखिलम् ।
प्रसन्नस्तद्भक्त्या त्यजसि किल नाद्यापि भवनं
बलेर्भक्ताधीन्यं तव विदितमेवामरपते ॥ ९ ॥

समाधावासक्तं नृपतितनयैर्वीक्ष्य पितरं
हतं बाणै रोषाद्गुरुतरमुपादाय परशुम् ।
विना क्षत्रं विष्णो क्षितितलमशेषं कृतवसो-
ऽसकृत्किं भूभारोद्धरणपटुता ते न विदिता ॥ १० ॥

समाराध्योमेशं त्रिभुवनमिदं वासवमुखं
वशे चक्रे चक्रिन्नगणयदनीशं जगदिदम् ।
गतोऽसौ लङ्केशस्त्वचिरमथ ते बाणविषयं
न केनाप्तं त्वत्तः फलमविनयस्यासुररिपो ॥ ११ ॥

क्वचिद्दिव्यं शौर्यं क्वचिदपि रणे कापुरुषता
क्वचिद्गीताज्ञानं क्वचिदपि परस्त्रीविहरणम् ।
क्वचिन्मृत्स्नाशित्वं क्वचिदपि च वैकुण्ठविभव-
श्चरित्रं ते नूनं शरणद विमोहाय कुधियाम् ॥ १२ ॥

न हिंस्यादित्येद्ध्रुवमवितथं वाक्यमबुधै-
रथाग्नीषोमीयं पशुमिति तु विप्रैर्निगदितम् ।
तवैतन्नास्थानेऽसुरगणविमोहाय गदतः
समृद्धिर्नीचानां नयकर हि दुःखाय जगतः ॥ १३ ॥

विभागे वर्णानां निगमनिचये चाऽवनितले
विलुप्ते सञ्जातो द्विजवरगृहे शम्भलपुरे ।
समारुह्याश्वं स्वं लसदसिकरो म्लेच्छनिकरा-
न्निहन्ताऽस्युन्मत्तान्किल कलियुगान्ते युगपते ॥ १४ ॥

गभीरे कासारे जलचरवराकृष्टचरणो
रणेऽशक्तो मज्जन्नभयद जलेऽचिन्तयदसौ ।
यदा नागेन्द्रस्त्वां सपदि पदपाशादपगतो
गतः स्वर्गं स्थानं भवति विपदां ते किमु जनः ॥ १५ ॥

सुतैः पृष्टो वेधाः प्रतिवचनदानेऽप्रभुरसा-
वथात्मन्यात्मानं शरणमगमत्त्वां त्रिजगताम् ।
ततस्तेऽस्तातङ्का ययुरथ मुदं हंसवपुषा
त्वया ते सार्वज्ञ्यं प्रथितममरेशेह किमु नो ॥ १६ ॥

समाविद्धो मातुर्वचनविशिखैराशु विपिनं
तपश्चक्रे गत्वा तव परमतोषाय परमम् ।
ध्रुवो लेभे दिव्यं पदमचलमल्पेऽपि वयसि
किमस्त्यस्मिन्लोके त्वयि वरद तुष्टे दुरधिगम् ॥ १७ ॥

वृकाद्भीतस्तूर्णं स्वजनभयभित्त्वां पशुपतिः
भ्रमन्लोकान्सर्वान् चरणमुपयातोऽथ दनुजः ।
स्वयं भस्मीभूतस्तव वचनभङ्गोद्गतमतिः
रमेशाहो माया तव दुरनुमेयाऽखिलजनैः ।१८ ॥

हृतं दैत्यैर्दृष्ट्वाऽमृतघटमजय्यैस्तु नयतः
कटाक्षैः संमोहं युवतिपरवेषेण दितिजान् ।
समग्रं पीयूषं सुभग सुरपूगाय ददतः
समस्यापि प्रायस्तव खलु हि भृत्येष्वभिरतिः ॥ १९ ॥

समाकृष्टा दुष्टैर्द्रुपदतनयाऽलब्धशरणा
सभायां सर्वात्मंस्तव चरणमुच्चैरुपगता ।
समक्षं सर्वेषामभवदचिरं चीरनिचयः
स्मृतेस्ते साफल्यं नयनविषयं नो किमु सताम् ॥ २० ॥

वदन्त्येके स्थानं तव वरद वैकुण्ठमपरे
गवां लोकं लोकं फणिनिलयपातालमितरे ।
तथान्ये क्षीरोदं हृदयनलिनं चापि तु सतां
न मन्ये तत् स्थानं त्वहमिह च यत्रासि न विभो ॥ २१ ॥

शिवोऽहं रुद्राणामहममरराजो दिविषदां
मुनीनां व्यासोऽहं सुरवर समुद्रोऽस्मि सरसाम् ।
कुबेरो यक्षाणामिति तव वचो मन्दमतये
न जाने तज्जातं जगति ननु यन्नासि भगवन् ॥ २२ ॥

शिरो नाको नेत्रे शशिदिनकरावम्बरमुरो
दिशः श्रोत्रे वाणी निगमनिकरस्ते कटिरिला ।
अकूपारो वस्तिश्चरणमपि पातालमिति वै
स्वरूपं तेऽज्ञात्वा नृतनुमवजानन्ति कुधियः ॥ २३ ॥

शरीरं वैकुण्ठं हृदयनलिनं वाससदनं
मनोवृत्तिस्तार्क्ष्यो मतिरियमथो सागरसुता ।
विहारस्तेऽवस्थात्रितयमसवः पार्षदगणो
न पश्यत्यज्ञा त्वामिह बहिरहो याति जनता ॥ २४ ॥

सुघोरं कान्तारं विशति च तटाकं सुगहनं
तथोत्तुङ्गं शृङ्गं सपदि च समारोहति गिरेः ।
प्रसूनार्थं चेतोम्बुजममलमेकं त्वयि विभो
समर्प्याज्ञस्तूर्णं बत न च सुखं विन्दति जनः ॥ २५ ॥

कृतैकान्तावासा विगतनिखिलाशाः शमपरा
जितश्वासोच्छ्वासास्त्रुटितभवपाशाः सुयमिनः ।
परं ज्योतिः पश्यन्त्यनघ यदि पश्यन्तु मम तु
श्रियाश्लिष्टं भूयान्नयनविषयं ते किल वपुः ॥ २६ ॥

कदा गङ्गोत्तुङ्गाऽमलतरतरङ्गाच्च पुलिने
वसन्नाशापाशादखिलखलदाशादपगतः ।
अये लक्ष्मीकान्ताम्बुजनयन तातामरपते
प्रसीदेत्याजल्पन्नमरवर नेष्यामि समयम् ॥ २७ ॥

कदा शृङ्गैः स्फीते मुनिगणपरीते हिमनगे
द्रुमावीते शीते सुरमधुरगीते प्रतिवसन् ।
क्वचिद्ध्यानासक्तो विषयसुविरक्तो भवहरं
स्मरंस्ते पादाब्जं जनिहर समेष्यामि विलयम् ॥ २८ ॥

सुधापानं ज्ञानं न च विपुलदानं न निगमो
न यागो नो योगो न च निखिलभोगोपरमणम् ।
जपो नो नो तीर्थं व्रतमिह न चोग्रं त्वयि तपो
विना भक्तिं तेऽलं भवभयविनाशाय मधुहन् ॥ २९ ॥

नमः सर्वेष्टाय श्रुतिशिखरदृष्टाय च नमो
नमः संश्लिष्टाय त्रिभुवननिविष्टाय च नमः ।
नमो विस्पष्टाय प्रणवपरिमृष्टाय च नमो
नमस्ते सर्वात्मन्पुनरपि पुनस्ते मम नमः ॥ ३० ॥ [** नमस्ते **]

कणान्कश्चिद्वृष्टेर्गणननिपुणस्तूर्णमवने-
स्तथाशेषान्पांसूनमित कलयेच्चापि तु जनः ।
नभः पिण्डीकुर्यादचिरमपि चेच्चर्मवदिदं
तथापीशानस्ते कलयितुमलं नाखिलगुणान् ॥ ३१ ॥

क्व माहात्म्यं सीमोज्झितमविषयं वेदवचसां
विभो ते मे चेतः क्व च विविधतापाहतमिदम् ।
मयेदं यत्किञ्चिद्गदितमथ बाल्येन तु गुरो
गृहाणैतच्छ्रद्धार्पितमिह न हेयं हि महताम् ॥ ३२ ॥

इति हरिस्तवनं सुमनोहरं
परमहंसजनेन समीरितम् ।
सुगमसुन्दरसारपदास्पदं
तदिदमस्तु हरेरनिशं मुदे ॥ ३३ ॥

गदारथाङ्गाम्बुजकम्बुधारिणो
रमासमाश्लिष्टतनोस्तनोतु नः ।
बिलेशयाधीशशरीरशायिनः
शिवं स्तवोऽजस्रमयं परं हरेः ॥ ३४ ॥

पठेदिमं यस्तु नरः परं स्तवं
समाहितोऽघौघघनप्रभञ्जनम् ।
स विन्दतेऽत्राखिलभोगसम्पदो
महीयते विष्णुपदे ततो ध्रुवम् ॥ ३५ ॥

इति श्रीमत्परमहंसस्वामिब्रह्मानन्दविरचितं श्रीविष्णुमहिम्नः स्तोत्रम् ।


Sri Vishnu Stotras – श्री विष्णु स्तोत्राणि

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.